शाक्तोपनिषदों में शक्ति-तत्त्वम्: स्त्री-आध्यात्मिकता की व्याख्या

Authors

  • Suma K U Author

DOI:

https://doi.org/10.63090/IJILRS/3108.1797.0011

Keywords:

शाक्तोपनिषदः, शक्तिः, स्त्री-आध्यात्मिकता, ब्रह्म-शक्त्योः अभेदः, शक्त्युपासना

Abstract

अयं शोधपत्रः शाक्तोपनिषत्सु शक्तितत्त्वस्य गम्भीरं विश्लेषणं प्रस्तौति। शाक्तोपनिषदः भारतीय-आध्यात्मिक-परम्परायाः महत्त्वपूर्णाः ग्रन्थाः सन्ति येषु स्त्री-शक्तिः परमतत्त्वरूपेण प्रतिपादिता। देव्युपनिषद्, त्रिपुरोपनिषद्, त्रिपुरातापिन्युपनिषद्, भावनोपनिषद् इत्यादयः प्रमुखाः शाक्तोपनिषदः शक्तिं ब्रह्मस्वरूपां चिच्छक्तिं च प्रतिपादयन्ति। अस्मिन् शोधे शक्तितत्त्वस्य दार्शनिकं विवेचनं कृत्वा तस्य स्त्री-आध्यात्मिकतया सह सम्बन्धः परीक्षितः। विशेषतः ब्रह्म-शक्त्योः अभेदः, जगत्स्रष्टृत्वे शक्तेः भूमिका, आध्यात्मिक-साधनायां शक्त्युपासनायाः महत्त्वं च विमृश्य प्रतिपादितम्। अनेन अध्ययनेन ज्ञायते यत् शाक्तोपनिषदः केवलं तान्त्रिकपरम्पराया एव न अपितु वेदान्तदर्शनस्य समग्रस्य च महत्त्वपूर्णं योगदानं ददति। शक्तिः न केवलं स्त्रीत्वस्य प्रतीकं किन्तु सर्वस्य जगतः मूलभूतं चैतन्यमेव अस्ति इति सिद्धान्तः अत्र प्रतिष्ठापितः।

Downloads

Published

2026-12-25